|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.53. अध्यायः 053
Mahabharata - Karna Parva - Chapter Topics
अर्जुनेनाश्वत्थामपराजयः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-53-0x(4973)(57680)
ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः।
नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव॥ 8-53-1(57681)
सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः।
लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव॥ 8-53-2(57682)
ततोऽविध्यद्धुवोर्मध्ये नाराचैरर्जुनो भृशम्।
स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः॥ 8-53-3(57683)
अथ कृष्णौ शरशतैरश्वत्थाम्नाऽर्दितौ भृशम्।
स्वरश्मिजालविकचौ युगान्तार्काविवासुतः॥ 8-53-4(57684)
ततोऽर्जुनः सर्वतोधारमस्त्र--
मवासृजद्वासुदेवेऽभिभूते।
द्रौणायनिश्चाभ्यहनत्पृषत्कै--
र्वज्राग्निवैवस्वतदण्डकल्पैः॥ 8-53-5(57685)
स केशवं चार्जुनं चातितेजा
विव्याध मर्मस्वतिरौद्रकर्मा।
बाणैः सुमुक्तैरतितीव्रवेगै--
र्यैराहतो मृत्युरपि व्यथेत॥ 8-53-6(57686)
द्रौणेरिषूनिषुभिः सन्निवार्य
व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः।
तं साश्वसूतध्वजमेकवीर--
मावृत्य संशप्तकसैन्यमार्च्छत्॥ 8-53-7(57687)
धनूंषि बाणानिषुधीर्धनुर्ज्याः
पाणीन्भुजान्पाणिगतं च शस्त्रम्।
छत्राणि केतूंस्तुरगान्रथेषां
वस्त्राणि माल्यान्यथा भूषणानि॥ 8-53-8(57688)
चर्माणि वर्माणि मनोरमाणि
प्रसह्य चैषां स शिरांसि चैव।
स्रिच्छेद पार्थो द्विषतां सुमुक्तै--
र्बाणैः स्थितानामपराङ्मुखानाम्॥ 8-53-9(57689)
सुकल्पिताः स्मन्दनवाजिनागाः
समास्थिताः कृतयत्नैर्नृवीरैः।
पार्थेरितैर्बाणशतैर्निरस्ता--
स्तैरेव सार्धं नृवरैर्विनेशुः॥ 8-53-10(57690)
पद्मार्कपूर्णेन्दुनिभाननानि
किरीटमाल्याभरणोज्ज्वलानि।
भल्लार्धचन्द्रक्षुरसन्निकृत्ता--
न्यपातयच्छत्रुशिरांस्यजस्रम्॥ 8-53-11(57691)
अथ द्विपैर्दैत्यरिपुद्विपाभै--
र्देवारिकल्पा बलमन्युकल्पैः।
कलिङ्गवङ्गाङ्गनिषादवीरा
जिघांसवः पाण्डवमभ्यधावन्॥ 8-53-12(57692)
तेषां द्विपानां निचकर्त पार्थो
वर्माणि चर्माणि करान्नियन्तॄन्।
ध्वजाः पताकाश्च ततः प्रपेतु--
र्वज्राहतानीव गिरेः शिरांसि॥ 8-53-13(57693)
तेषु प्रभग्नेषु गुरोस्तनूजं
बाणैः किरीटि नवसूर्यवर्णैः।
प्रच्छादयामास महाभ्रजालै--
र्वायुः समुद्यन्तमिवांशुमन्तम्॥ 8-53-14(57694)
ततोऽर्जुनेषूनिषुभिर्निरस्य
द्रौणिः शितैरर्जुनवासुदेवौ।
प्रच्छादयित्वा दिवि चन्द्रसूर्यौ
ननाद सोऽम्भोद इवातपान्ते॥ 8-53-15(57695)
तमर्जुनस्तांश्च पुनस्त्वदीया--
नभ्यर्दितस्तैरभिसृत्य शस्त्रैः।
वाणान्धकारं सहसैव कृत्त्वा
विव्याध पार्थो वरहेमपुङ्खैः॥ 8-53-16(57696)
नाप्याददत्सन्दधन्नैव मुञ्च--
न्बाणान्रथेऽदृश्यत सव्यसाची।
रथांश्च नागांस्तुरगान्पदातीन्
संस्यूतदेहान्ददृशुर्हतांश्च॥ 8-53-17(57697)
सन्धाय नाराचवरान्दशाशु
द्रौणिस्त्वरन्नेकमिवोत्ससर्ज।
तेषां च पञ्चार्जुनमभ्यविध्य--
न्पञ्चाच्युतं निर्बिभुदुः सुपुङ्खाः॥ 8-53-18(57698)
तैराहतौ सर्वमनुष्यमुख्या--
वसृक्स्रवन्तौ धनदेन्द्रकल्पौ।
समाप्तविद्येन तथाऽभिभूतौ
हतौ रणे ताविति मेनिरेऽन्ये॥ 8-53-19(57699)
अथार्जुनं प्राह दशार्हनाथः
प्रमाद्यसे किं जहि योधमेतम्।
कुर्याद्धि दोषं समुपेक्षितोऽयं
कष्टो भवेद्व्याधिरिवाक्रियावान्॥ 8-53-20(57700)
तथेति चोक्त्वाऽच्युतमप्रमादी
द्रौणेः प्रहस्याशु किरीटमाली।
भुजौ वरौ चन्दनसारदिग्धौ
वक्षः शिरोऽथाप्रतिमौ तथोरू॥ 8-53-21(57701)
गाण्डीवमुक्तैः कुपिताहिकल्पै--
द्रौणिं शरैः संयति निर्बिभेद।
छित्त्वा तु रश्मींस्तुरगानविध्य--
त्ते तं रणादूहुरतीव दूरम्॥ 8-53-22(57702)
स तैर्हृतो वातजवैस्तुरङ्गै-
र्द्रौणिर्दृढं पार्थशराभिभूतः।
आवृत्य नैव व्यषहत्स योद्धुं
पार्थेन सार्धं मतिमान्विमृश्य। 8-53-23(57703)
जानञ्जयं नियतं वृष्णिवीरे
धनञ्जये चाङ्गिरसां वरिष्ठः॥
विवेश कर्णस्य बलं तरस्वी
भग्नोत्साहः क्षीणवाणास्त्रयोगः॥ 8-53-24(57704)
प्रतीपकामे तु रणादश्वत्थाम्नि हृते हयैः।
मन्त्रौषधिक्रियायोगैर्व्याधौ देहादिवाहृते॥ 8-53-25(57705)
संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ।
वातोद्वूतपताकेन स्यन्दनेनौघनादिना॥ ॥ 8-53-26(57706)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिपञ्चाशोऽध्यायः॥ 53 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-53-1 नक्षत्रमभितः नक्षत्रं लक्षीकृत्य॥ 8-53-2 विमार्गस्थौ वक्रातिचारगौ॥ 8-53-4 कृष्णौ कृष्णार्जुनौ आसतुः दीपयाञ्चक्रतुः॥ 8-53-5 सर्वतोधारं सर्वतोऽस्त्रधारावर्षकं। सर्वतोवारमिति घ.ङ.पाठः। वज्रकल्पैः अमोधैः। अग्निकल्पैः दाहकैः। वैवस्वतदण्डकल्पैः प्राणहरैः॥ 8-53-7 ध्यायच्छतो यतमानस्य। आर्च्छतगतवान्॥ 8-53-10 सुकल्पिताः सुसन्नद्धाः॥ 8-53-13 करान् शुण्डाः॥ 8-53-16 तं अश्वत्थामानम्। तान् तदन्यान्। तैः कृतं न्नाणान्धकारं कृत्त्वा छित्त्वा। कृती छेदन॥ 8-53-17 संस्यूताः अन्योन्यं सन्धट्टवन्तः॥ 8-53-19 समाप्तविद्येन समग्रधनुर्वेदविदा॥ 8-53-20 अक्रियावान् प्रतिकाररहितः॥ 8-53-22 अविकर्णैः अविकर्णतुत्याग्रैः॥ 8-53-23 अङ्गिरसां अङ्गिरोगोत्राणां मध्ये॥ 8-53-26 ओघनादिना जलौघवन्नादवता॥ 8-53-53 त्रिपञ्चाशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|